वांछित मन्त्र चुनें

यु॒वं श्वे॒तं पे॒दवे॑ऽश्वि॒नाश्वं॑ न॒वभि॒र्वाजै॑र्नव॒ती च॑ वा॒जिन॑म् । च॒र्कृत्यं॑ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं॑ मयो॒भुव॑म् ॥

अंग्रेज़ी लिप्यंतरण

yuvaṁ śvetam pedave śvināśvaṁ navabhir vājair navatī ca vājinam | carkṛtyaṁ dadathur drāvayatsakham bhagaṁ na nṛbhyo havyam mayobhuvam ||

पद पाठ

यु॒वम् । श्वे॒तम् । पे॒दवे॑ । अ॒श्वि॒ना॒ । अश्व॑म् । न॒वऽभिः॑ । वाजैः॑ । न॒व॒ती । च॒ । वा॒जिन॑म् । च॒र्कृत्य॑म् । द॒द॒थुः॒ । द्र॒व॒यत्ऽस॑खम् । भग॑म् । न । नृऽभ्यः॑ । हव्य॑म् । म॒यः॒ऽभुव॑म् ॥ १०.३९.१०

ऋग्वेद » मण्डल:10» सूक्त:39» मन्त्र:10 | अष्टक:7» अध्याय:8» वर्ग:16» मन्त्र:5 | मण्डल:10» अनुवाक:3» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (युवम्-अश्विना) हे अध्यापक उपदेशकों ! तुम दोनों (पेदवे) सुख प्राप्त करनेवाले आत्मा के लिए (नवभिः-वाजैः-नवती च) नौ अर्थात् मन, बुद्धि, चित्त, अहंकारसम्बन्धी और पञ्चज्ञानेन्द्रियसम्बन्धी, बलों और प्रवृत्तियों से युक्त (श्वेतं वाजिनम्) शुद्ध भोगवाले देह को (चर्कृत्यम्) पुनः-पुनः भोगप्राप्त करनेवाले को (द्रावयत्सखम्) रस-रक्त रिसाती हुई नाड़ियाँ सखीभूत जिसकी हैं, उस ऐसे को (ददथुः) जीवन देते हो (नृभ्यः-मयोभुवं हव्यं भगम्-न) नेताजनों जीवन्मुक्तों के लिए मोक्ष जैसे कल्याण को भावित करनेवाले हो-ऐश्वर्य को देते हो ॥१०॥
भावार्थभाषाः - अध्यापक और उपदेशक सुख के इच्छुक अधिकारी को उसके अन्तःकरण और ज्ञानेन्द्रियसम्बन्धी प्रवृत्तियों से युक्त देह को पुनः-पुनः सुखभोग का साधन बनाते हैं ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (युवम्-अश्विना) युवाम्, अश्विनौ ! (पेदवे) सुखस्य प्रापयित्रे-आत्मने (नवभिः-वाजैः-नवती च) मनोबुद्धिचित्ताहङ्कार-सम्बन्धिभिश्चतुर्भिः पञ्चज्ञानेन्द्रियसम्बन्धिभिः, नवती-नवतीभिः “सुपां सुलुक्” [अष्टा० ७।१।३९] इति विभक्तेर्लुक्, बलरूपाभिः प्रवृत्तिभिर्युक्तं (श्वेतं वाजिनम्) शुद्धं बलवन्तं नूतनं भोगवन्तं देहम् (चर्कृत्यम्) पुनः पुनः चरणीयं प्रापणस्वभावम् (द्रावयत्सखम्) रसरक्तं स्रावयन्त्यो नाड्यः सखिभूता यस्य तथाभूतम् (ददथुः) दत्थः-जीवयथः (नृभ्यः-मयोभुवं हव्यं भगम्-न) नेतृभ्यो जीवनमुक्तेभ्यो मोक्षमिव कल्याणं भावुकमैश्वर्यं दत्थः, “नरो वै देवविशः” [ जै० १।९९] ॥१०॥